Mahabharata

Shanti Parva, Adhyaya 162

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 162, Verse 1

पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन

प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 162, Verse 2

कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्

आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे

Mahabharata

Shanti Parva, Adhyaya 162, Verse 3

न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः

तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम

Mahabharata

Shanti Parva, Adhyaya 162, Verse 4

दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्

एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 162, Verse 5

संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः

वदतो मे निबोध त्वं निखिलेन युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 162, Verse 6

लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च

क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 7

दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः

व्यसने यः परित्यागी दुरात्मा निरपत्रपः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 8

सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः

संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत्

Mahabharata

Shanti Parva, Adhyaya 162, Verse 9

असत्यो लोकविद्विष्टः समये चानवस्थितः

पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 10

दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा

मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 11

वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः

अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ

Mahabharata

Shanti Parva, Adhyaya 162, Verse 12

अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते

सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी

Mahabharata

Shanti Parva, Adhyaya 162, Verse 13

अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च

कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप

Mahabharata

Shanti Parva, Adhyaya 162, Verse 14

शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः

न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम्

Mahabharata

Shanti Parva, Adhyaya 162, Verse 15

पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा

परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 16

कृतघ्नश्चाधमो लोके न संधेयः कथंचन

छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु

Mahabharata

Shanti Parva, Adhyaya 162, Verse 17

कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः

मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 18

माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः

व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 19

रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः

दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह

Mahabharata

Shanti Parva, Adhyaya 162, Verse 20

यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो

नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 21

विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः

आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः

न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम्

Mahabharata

Shanti Parva, Adhyaya 162, Verse 22

दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ

न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 23

लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः

ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः

संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा

Mahabharata

Shanti Parva, Adhyaya 162, Verse 24

ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः

तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव

Mahabharata

Shanti Parva, Adhyaya 162, Verse 25

शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः

क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 26

ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ

तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः

त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 162, Verse 27

विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव

मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद

Mahabharata

Shanti Parva, Adhyaya 162, Verse 28

हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्

उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप

Mahabharata

Shanti Parva, Adhyaya 162, Verse 29

ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः

ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया

Mahabharata

Shanti Parva, Adhyaya 162, Verse 30

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्

ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत्