Mahabharata

Shanti Parva, Adhyaya 161

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 161, Verse 1

इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः

पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 2

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता

तेषां गरीयान्कतमो मध्यमः को लघुश्च कः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 3

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै

संतुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ

Mahabharata

Shanti Parva, Adhyaya 161, Verse 4

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्

जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 5

बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा

भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 6

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः

एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 7

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः

धर्मेण देवा दिविगा धर्मे चार्थः समाहितः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 8

धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते

कामो यवीयानिति च प्रवदन्ति मनीषिणः

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना

Mahabharata

Shanti Parva, Adhyaya 161, Verse 9

समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः

पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 10

कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते

कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च

Mahabharata

Shanti Parva, Adhyaya 161, Verse 11

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः

न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 12

विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम्

कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 13

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः

अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 14

उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः

ब्रह्माणमिव भूतानि सततं पर्युपासते

Mahabharata

Shanti Parva, Adhyaya 161, Verse 15

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः

मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 16

काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः

विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 17

अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः

कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 18

आस्तिका नास्तिकाश्चैव नियताः संयमे परे

अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता

Mahabharata

Shanti Parva, Adhyaya 161, Verse 19

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्

एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्

अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 20

ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्

नकुलः सहदेवश्च वाक्यं जगदतुः परम्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 21

आसीनश्च शयानश्च विचरन्नपि च स्थितः

अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि

Mahabharata

Shanti Parva, Adhyaya 161, Verse 22

अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये

इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 23

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः

मध्विवामृतसंयुक्तं तस्मादेतौ मताविह

Mahabharata

Shanti Parva, Adhyaya 161, Verse 24

अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः

तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 25

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना

विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि

Mahabharata

Shanti Parva, Adhyaya 161, Verse 26

धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम्

ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्

Mahabharata

Shanti Parva, Adhyaya 161, Verse 27

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ

भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे

Mahabharata

Shanti Parva, Adhyaya 161, Verse 28

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति

नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते

Mahabharata

Shanti Parva, Adhyaya 161, Verse 29

कामेन युक्ता ऋषयस्तपस्येव समाहिताः

पलाशफलमूलाशा वायुभक्षाः सुसंयताः

Mahabharata

Shanti Parva, Adhyaya 161, Verse 30

वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः

श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे