Mahabharata

Shanti Parva, Adhyaya 160

Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 160, Verse 1

कथान्तरमथासाद्य खड्गयुद्धविशारदः

नकुलः शरतल्पस्थमिदमाह पितामहम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 2

धनुः प्रहरणं श्रेष्ठमिति वादः पितामह

मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 3

विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु

खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 4

शरासनधरांश्चैव गदाशक्तिधरांस्तथा

एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 5

अत्र मे संशयश्चैव कौतूहलमतीव च

किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव

Mahabharata

Shanti Parva, Adhyaya 160, Verse 6

कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा

पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह

Mahabharata

Shanti Parva, Adhyaya 160, Verse 7

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः

सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 8

ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्

शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते

Mahabharata

Shanti Parva, Adhyaya 160, Verse 9

उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः

शरतल्पगतो भीष्मो नकुलाय महात्मने

Mahabharata

Shanti Parva, Adhyaya 160, Verse 10

तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि

प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 11

सलिलैकार्णवं तात पुरा सर्वमभूदिदम्

निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 12

तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम्

निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 13

सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्

आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 14

नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा

संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 15

ततः शरीरं लोकस्थं स्थापयित्वा पितामहः

जनयामास भगवान्पुत्रानुत्तमतेजसः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 16

मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम्

वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 17

प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत्

ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे

Mahabharata

Shanti Parva, Adhyaya 160, Verse 18

ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा

गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च

Mahabharata

Shanti Parva, Adhyaya 160, Verse 19

पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः

नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 20

औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः

जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम्

Mahabharata

Shanti Parva, Adhyaya 160, Verse 21

भूतसर्गमिमं कृत्वा सर्वलोकपितामहः

शाश्वतं वेदपठितं धर्मं च युयुजे पुनः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 22

तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः

आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 23

भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः

वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ

Mahabharata

Shanti Parva, Adhyaya 160, Verse 24

ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा

घृताचाः सोमवायव्या वैखानसमरीचिपाः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 25

अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः

वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने

Mahabharata

Shanti Parva, Adhyaya 160, Verse 26

दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्

धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 27

हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः

शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 28

एते चान्ये च बहवः सगणा दैत्यदानवाः

धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 29

सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम्

इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः

Mahabharata

Shanti Parva, Adhyaya 160, Verse 30

न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत

त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः

न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः