Adi Parva, Adhyaya 216, Verse 1
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः
चिन्तयामास वरुणं लोकपालं दिदृक्षया
आदित्यमुदके देवं निवसन्तं जलेश्वरम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः
चिन्तयामास वरुणं लोकपालं दिदृक्षया
आदित्यमुदके देवं निवसन्तं जलेश्वरम्
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्
तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम्
चतुर्थं लोकपालानां रक्षितारं महेश्वरम्
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति
चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम्
ददानीत्येव वरुणः पावकं प्रत्यभाषत
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च
सर्वायुधमहामात्रं परसेनाप्रधर्षणम्
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः
भानुमन्तं महाघोषं सर्वभूतमनोहरम्
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः
नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः
विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति
स तं नानापताकाभिः शोभितं रथमुत्तमम्
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
आरुरोह रथं पार्थो विमानं सुकृती यथा
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान्
जग्राह बलमास्थाय ज्यया च युयुजे धनुः
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह
येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा
अब्रवीत्पावकश्चैनमेतेन मधुसूदन
अमानुषानपि रणे विजेष्यसि न संशयः
अनेन त्वं मनुष्याणां देवानामपि चाहवे
रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा
भविष्यसि न संदेहः प्रवरारिनिबर्हणे
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु
हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान्
त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी
अहमप्युत्सहे लोकान्विजेतुं युधि पावक
सर्वतः परिवार्यैनं दावेन महता प्रभो
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि