Shanti Parva, Adhyaya 159, Verse 1
कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः
आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः
आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः
अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः
अन्यत्र दक्षिणा या तु देया भरतसत्तम
अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते
सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत्
ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सोमं पातुमर्हति
यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः
कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत्
आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः
न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्
अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो
तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः
तथैव सप्तमे भक्ते भक्तानि षडनश्नता
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः
खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये
अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम्
विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः
आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्
न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः
अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम्
तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम्
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते
तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम्
क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः
धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः
न वै कन्या न युवतिर्नामन्त्रो न च बालिशः
परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
नरके निपतन्त्येते जुह्वानाः स च यस्य तत्
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः
इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति
उदक्या ह्यासते ये च ये च केचिदनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति
अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम्
अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः
तथा स शुध्यते राजञ्शृणु चात्र वचो मम
यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः
स्थानासनाभ्यां विचरन्व्रती सं;स्त्रिभिर्वर्षैः शमयेदात्मपापम्
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले
न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि
श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत्
सुवर्णमपि चामेध्यादाददीतेति धारणा
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः