Shanti Parva, Adhyaya 158, Verse 1
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्
नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत
तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम्
स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः
असंभोगी च मानी च तथा सङ्गी विकत्थनः
सर्वातिशङ्की परुषो बालिशः कृपणस्तथा
वर्गप्रशंसी सततमाश्रमद्वेषसंकरी
हिंसाविहारी सततमविशेषगुणागुणः
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्यचित्
परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत्
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्
तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वापि च धनं काले संतपत्युपकारिणे
भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम्
प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयो वै पुरुषेण बुभूषता