Mahabharata

Shanti Parva, Adhyaya 157

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 157, Verse 1

यतः प्रभवति क्रोधः कामश्च भरतर्षभ

शोकमोहौ विवित्सा च परासुत्वं तथा मदः

Mahabharata

Shanti Parva, Adhyaya 157, Verse 2

लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा

एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद

Mahabharata

Shanti Parva, Adhyaya 157, Verse 3

त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः

उपासते महाराज समस्ताः पुरुषानिह

Mahabharata

Shanti Parva, Adhyaya 157, Verse 4

एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि

वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान्

Mahabharata

Shanti Parva, Adhyaya 157, Verse 5

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते

इति मर्त्यो विजानीयात्सततं भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 157, Verse 6

एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम

हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु

Mahabharata

Shanti Parva, Adhyaya 157, Verse 7

लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते

क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते

Mahabharata

Shanti Parva, Adhyaya 157, Verse 8

संकल्पाज्जायते कामः सेव्यमानो विवर्धते

अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम्

Mahabharata

Shanti Parva, Adhyaya 157, Verse 9

विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः

विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते

Mahabharata

Shanti Parva, Adhyaya 157, Verse 10

प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः

यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 157, Verse 11

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते

दयया सर्वभूतानां निर्वेदात्सा निवर्तते

Mahabharata

Shanti Parva, Adhyaya 157, Verse 12

सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते

एतत्तु क्षीयते तात साधूनामुपसेवनात्

Mahabharata

Shanti Parva, Adhyaya 157, Verse 13

कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम्

एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 157, Verse 14

ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत

इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 157, Verse 15

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः

कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति

Mahabharata

Shanti Parva, Adhyaya 157, Verse 16

प्रतिकर्तुमशक्याय बलस्थायापकारिणे

असूया जायते तीव्रा कारुण्याद्विनिवर्तते

Mahabharata

Shanti Parva, Adhyaya 157, Verse 17

कृपणान्सततं दृष्ट्वा ततः संजायते कृपा

धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा

Mahabharata

Shanti Parva, Adhyaya 157, Verse 18

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश

एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश

त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्