Mahabharata

Shanti Parva, Adhyaya 156

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 156, Verse 1

सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः

सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 156, Verse 2

सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते

सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते

Mahabharata

Shanti Parva, Adhyaya 156, Verse 3

चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते

अविकारितमं सत्यं सर्ववर्णेषु भारत

Mahabharata

Shanti Parva, Adhyaya 156, Verse 4

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः

सत्यमेव नमस्येत सत्यं हि परमा गतिः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 5

सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम्

सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 156, Verse 6

आचारानिह सत्यस्य यथावदनुपूर्वशः

लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम्

Mahabharata

Shanti Parva, Adhyaya 156, Verse 7

प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि

सत्यं त्रयोदशविधं सर्वलोकेषु भारत

Mahabharata

Shanti Parva, Adhyaya 156, Verse 8

सत्यं च समता चैव दमश्चैव न संशयः

अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता

Mahabharata

Shanti Parva, Adhyaya 156, Verse 9

त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा

अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश

Mahabharata

Shanti Parva, Adhyaya 156, Verse 10

सत्यं नामाव्ययं नित्यमविकारि तथैव च

सर्वधर्माविरुद्धं च योगेनैतदवाप्यते

Mahabharata

Shanti Parva, Adhyaya 156, Verse 11

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा

इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा

Mahabharata

Shanti Parva, Adhyaya 156, Verse 12

दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च

अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते

Mahabharata

Shanti Parva, Adhyaya 156, Verse 13

अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम्

अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्

Mahabharata

Shanti Parva, Adhyaya 156, Verse 14

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च

क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान्

Mahabharata

Shanti Parva, Adhyaya 156, Verse 15

कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित्

प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते

Mahabharata

Shanti Parva, Adhyaya 156, Verse 16

धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते

लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते

Mahabharata

Shanti Parva, Adhyaya 156, Verse 17

त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च

रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा

Mahabharata

Shanti Parva, Adhyaya 156, Verse 18

आर्यता नाम भूतानां यः करोति प्रयत्नतः

शुभं कर्म निराकारो वीतरागत्वमेव च

Mahabharata

Shanti Parva, Adhyaya 156, Verse 19

धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्

तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 20

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च

वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 21

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा

अनुग्रहश्च दानं च सतां धर्मः सनातनः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 22

एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः

भजन्ते सत्यमेवेह बृंहयन्ति च भारत

Mahabharata

Shanti Parva, Adhyaya 156, Verse 23

नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत

अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 24

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्

स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्

Mahabharata

Shanti Parva, Adhyaya 156, Verse 25

उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः

व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः

Mahabharata

Shanti Parva, Adhyaya 156, Verse 26

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्

अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते