Shanti Parva, Adhyaya 155, Verse 1
सर्वमेतत्तपोमूलं कवयः परिचक्षते
न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्वमेतत्तपोमूलं कवयः परिचक्षते
न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः
तथैव वेदानृषयस्तपसा प्रतिपेदिरे
तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः
औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः
तपसैव हि सिध्यन्ति तपोमूलं हि साधनम्
यद्दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम्
सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम्
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन नरः पापाद्विमुच्यते
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः
निवृत्त्या वर्तमानस्य तपो नानशनात्परम्
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः
एतेभ्यो हि महाराज तपो नानशनात्परम्
न दुष्करतरं दानान्नातिमातरमाश्रमः
त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः
इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये
तस्मादर्थे च धर्मे च तपो नानशनात्परम्
ऋषयः पितरो देवा मनुष्या मृगसत्तमाः
यानि चान्यानि भूतानि स्थावराणि चराणि च
तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते
इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन्
इमानीष्टविभागानि फलानि तपसा सदा
तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात्