Shanti Parva, Adhyaya 154, Verse 1
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह
धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह
धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते
बहुधादर्शने लोके श्रेयो यदिह मन्यसे
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह
महानयं धर्मपथो बहुशाखश्च भारत
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः
हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे
पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः
स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते
दमो दानं तथा यज्ञानधीतं चातिवर्तते
दमस्तेजो वर्धयति पवित्रं च दमः परम्
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम्
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम्
दमेन हि समायुक्तो महान्तं धर्ममश्नुते
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान्
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्
तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम्
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता
अविवित्सानसूया चाप्येषां समुदयो दमः
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्
जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम्
कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम्
मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते
अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः
समुद्रकल्पः स नरो न कदाचन पूर्यते
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम्
पूर्वसंबन्धिसंयोगान्नैतद्दान्तो निषेवते
सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते
मैत्रोऽथ शीलसंपन्नः सुसहायपरश्च यः
मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम्
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते
कर्म यच्छुभमेवेह सद्भिराचरितं च यत्
तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः
कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते
अभयं यस्य भूतेभ्यो भूतानामभयं यतः
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन
अवाचिनोति कर्माणि न च संप्रचिनोति ह
समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत्
शकुनीनामिवाकाशे जले वारिचरस्य वा
यथा गतिर्न दृश्येत तथा तस्य न संशयः
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह