Mahabharata

Shanti Parva, Adhyaya 153

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 153, Verse 1

अनर्थानामधिष्ठानमुक्तो लोभः पितामह

अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः

Mahabharata

Shanti Parva, Adhyaya 153, Verse 2

करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम्

प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम्

Mahabharata

Shanti Parva, Adhyaya 153, Verse 3

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम्

अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति

Mahabharata

Shanti Parva, Adhyaya 153, Verse 4

अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ

मूलं योगं गतिं कालं कारणं हेतुमेव च

Mahabharata

Shanti Parva, Adhyaya 153, Verse 5

श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते

Mahabharata

Shanti Parva, Adhyaya 153, Verse 6

रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता

कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च

Mahabharata

Shanti Parva, Adhyaya 153, Verse 7

इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता

अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः

Mahabharata

Shanti Parva, Adhyaya 153, Verse 8

एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि

विस्तरेण महाबाहो शृणु तच्च विशां पते

Mahabharata

Shanti Parva, Adhyaya 153, Verse 9

उभावेतौ समफलौ समदोषौ च भारत

अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव

Mahabharata

Shanti Parva, Adhyaya 153, Verse 10

लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते

स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम्

Mahabharata

Shanti Parva, Adhyaya 153, Verse 11

मूलं लोभस्य महतः कालात्मगतिरेव च

छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि

Mahabharata

Shanti Parva, Adhyaya 153, Verse 12

तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च

सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 153, Verse 13

जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्

लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः

Mahabharata

Shanti Parva, Adhyaya 153, Verse 14

प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना

त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि