Mahabharata

Shanti Parva, Adhyaya 151

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 151, Verse 1

एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः

नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 2

हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान्

बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते

Mahabharata

Shanti Parva, Adhyaya 151, Verse 3

बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः

न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो

Mahabharata

Shanti Parva, Adhyaya 151, Verse 4

जानामि त्वामहं वायो सर्वप्राणभृतां वरम्

वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा

Mahabharata

Shanti Parva, Adhyaya 151, Verse 5

एवं तु वचनं श्रुत्वा नारदस्य समीरणः

शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 6

शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम्

अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 7

नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम

पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 8

तस्य विश्रमणादेव प्रसादो यः कृतस्तव

रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम

Mahabharata

Shanti Parva, Adhyaya 151, Verse 9

यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा

दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे

Mahabharata

Shanti Parva, Adhyaya 151, Verse 10

एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव

पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना

Mahabharata

Shanti Parva, Adhyaya 151, Verse 11

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि

न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 12

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः

दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 13

अथ निश्चित्य मनसा शल्मलिर्वातकारितम्

पश्यमानस्तदात्मानमसमं मातरिश्वनः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 14

नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा

असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 15

मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत्

अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 16

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः

तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 17

यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने

अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 18

तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः

समीरयेत संक्रुद्धो यथा जानाम्यहं तथा

Mahabharata

Shanti Parva, Adhyaya 151, Verse 19

ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा

शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 20

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च

प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 21

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्

आजगामाथ तं देशं स्थितो यत्र स शल्मलिः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 22

तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः

उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 23

अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा

आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 24

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान्

आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 25

एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा

अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 26

एवं यो राजशार्दूल दुर्बलः सन्बलीयसा

वैरमासज्जते बालस्तप्यते शल्मलिर्यथा

Mahabharata

Shanti Parva, Adhyaya 151, Verse 27

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः

शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा

Mahabharata

Shanti Parva, Adhyaya 151, Verse 28

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु

शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्

Mahabharata

Shanti Parva, Adhyaya 151, Verse 29

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना

बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः

Mahabharata

Shanti Parva, Adhyaya 151, Verse 30

न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप

तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत्