Mahabharata

Shanti Parva, Adhyaya 150

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 150, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च

Mahabharata

Shanti Parva, Adhyaya 150, Verse 2

हिमवन्तं समासाद्य महानासीद्वनस्पतिः

वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 3

तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः

विश्रमन्ति महाबाहो तथान्या मृगजातयः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 4

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः

शुकशारिकसंघुष्टः फलवान्पुष्पवानपि

Mahabharata

Shanti Parva, Adhyaya 150, Verse 5

सार्थिका वणिजश्चापि तापसाश्च वनौकसः

वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे

Mahabharata

Shanti Parva, Adhyaya 150, Verse 6

तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः

अभिगम्याब्रवीदेनं नारदो भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 150, Verse 7

अहो नु रमणीयस्त्वमहो चासि मनोरमः

प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले

Mahabharata

Shanti Parva, Adhyaya 150, Verse 8

सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः

वसन्ति तव संहृष्टा मनोहरतरास्तथा

Mahabharata

Shanti Parva, Adhyaya 150, Verse 9

तव शाखा महाशाख स्कन्धं च विपुलं तथा

न वै प्रभग्नान्पश्यामि मारुतेन कथंचन

Mahabharata

Shanti Parva, Adhyaya 150, Verse 10

किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत्

त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 11

विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि

पर्वतानां च शिखराण्याचालयति वेगवान्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 12

शोषयत्येव पातालं विवान्गन्धवहः शुचिः

ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह

Mahabharata

Shanti Parva, Adhyaya 150, Verse 13

त्वां संरक्षेत पवनः सखित्वेन न संशयः

तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि

Mahabharata

Shanti Parva, Adhyaya 150, Verse 14

इदं च रमणीयं ते प्रतिभाति वनस्पते

यदिमे विहगास्तात रमन्ते मुदितास्त्वयि

Mahabharata

Shanti Parva, Adhyaya 150, Verse 15

एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः

पुष्पसंमोदने काले वाशतां सुमनोहरम्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 16

तथेमे मुदिता नागाः स्वयूथकुलशोभिनः

घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले

Mahabharata

Shanti Parva, Adhyaya 150, Verse 17

तथैव मृगजातीभिरन्याभिरुपशोभसे

तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम

Mahabharata

Shanti Parva, Adhyaya 150, Verse 18

ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि

त्रिविष्टपसमं मन्ये तवायतनमेव ह

Mahabharata

Shanti Parva, Adhyaya 150, Verse 19

बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः

पालयत्येव सततं भीमः सर्वत्रगोऽनिलः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 20

न्यग्भावं परमं वायोः शल्मले त्वमुपागतः

तवाहमस्मीति सदा येन रक्षति मारुतः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 21

न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम्

यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 22

त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा

वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 23

न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत्

परमेष्ठी तथा नैव येन रक्षति मानिलः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 24

मम तेजोबलं वायोर्भीममपि हि नारद

कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 25

आगच्छन्परमो वायुर्मया विष्टम्भितो बलात्

रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन

Mahabharata

Shanti Parva, Adhyaya 150, Verse 26

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः

तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 27

शल्मले विपरीतं ते दर्शनं नात्र संशयः

न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्

Mahabharata

Shanti Parva, Adhyaya 150, Verse 28

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः

न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते

Mahabharata

Shanti Parva, Adhyaya 150, Verse 29

यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि

सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः

Mahabharata

Shanti Parva, Adhyaya 150, Verse 30

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः

असम्यगायतो भूयश्चेष्टते विकृतो नृषु