Adi Parva, Adhyaya 215, Verse 1
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम्
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः
दहेयं खाण्डवं दावमेतदन्नं वृतं मया
युवां ह्युदकधारास्ता भूतानि च समन्ततः
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम्
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि
निवारयेयं येनेन्द्रं वर्षमाणं महावने
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक
करणानि समर्थानि भगवन्दातुमर्हसि