Shanti Parva, Adhyaya 149, Verse 1
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा
Containing 117 sacred Sanskrit shlokas with multi-author commentaries and translations.
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा
दुःखिताः केचिदादाय बालमप्राप्तयौवनम्
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः
बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः
अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्
एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम्
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि
समानीतानि कालेन किं ते वै जात्वबान्धवाः
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान्
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता
कृतान्तविहिते मार्गे को मृतं जीवयिष्यति
कर्मान्तविहिते लोके चास्तं गच्छति भास्करे
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले
विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम्
निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः
ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः
गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्
बहुरूपो मुहूर्तश्च जीवेतापि कदाचन
यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः
श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि
यस्य भाषितमात्रेण प्रसादमुपगच्छथ
न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम्
न येषां धारयित्वा तान्कश्चिदस्ति फलागमः
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
परलोकगतिस्थानां मुनियज्ञक्रिया इव
तेषां पुत्राभिरामाणामिह लोके परत्र च
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च
अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित्
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति
इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः
क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम्
त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम्
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः
अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ
पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम्
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्
तपसा लभ्यते सर्वं विलापः किं करिष्यति