Mahabharata

Shanti Parva, Adhyaya 148

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 148, Verse 1

तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे

श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे

पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 2

अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव

कृत्स्ने नूनं सदसती इति लोको व्यवस्यति

यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि

Mahabharata

Shanti Parva, Adhyaya 148, Verse 3

हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः

इत्येतदपि भूतानामद्भुतं जनमेजय

Mahabharata

Shanti Parva, Adhyaya 148, Verse 4

यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः

अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते

Mahabharata

Shanti Parva, Adhyaya 148, Verse 5

एतदेव हि कार्पण्यं समग्रमसमीक्षितम्

तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 6

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते

पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 7

तदेव राज्ञां परमं पवित्रं जनमेजय

तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि

Mahabharata

Shanti Parva, Adhyaya 148, Verse 8

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्

अपि ह्युदाहरन्तीमा गाथा गीता ययातिना

Mahabharata

Shanti Parva, Adhyaya 148, Verse 9

यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः

यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 10

पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम्

यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 11

महासरः पुष्कराणि प्रभासोत्तरमानसे

कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 12

सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः

स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 13

त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत्

अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 14

यथा कुमारः सत्यो वै न पुण्यो न च पापकृत्

न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 15

एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्

त्यजतां जीवितं प्रायो विवृते पुण्यपातके

Mahabharata

Shanti Parva, Adhyaya 148, Verse 16

यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते

बलेन संविभागैश्च जय स्वर्गं पुनीष्व च

Mahabharata

Shanti Parva, Adhyaya 148, Verse 17

यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः

ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 18

यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय

अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा

Mahabharata

Shanti Parva, Adhyaya 148, Verse 19

आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः

घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 20

हिमाग्निघोरसदृशो राजा भवति कश्चन

लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप

Mahabharata

Shanti Parva, Adhyaya 148, Verse 21

न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः

न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु

Mahabharata

Shanti Parva, Adhyaya 148, Verse 22

विकर्मणा तप्यमानः पादात्पापस्य मुच्यते

नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते

चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते

Mahabharata

Shanti Parva, Adhyaya 148, Verse 23

कल्याणमनुमन्तव्यं पुरुषेण बुभूषता

ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते

ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते

Mahabharata

Shanti Parva, Adhyaya 148, Verse 24

तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते

संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते

त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 148, Verse 25

यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः

प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 148, Verse 26

अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम्

यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 27

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा

अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्

Mahabharata

Shanti Parva, Adhyaya 148, Verse 28

बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन्

धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके

Mahabharata

Shanti Parva, Adhyaya 148, Verse 29

उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात्

आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः

Mahabharata

Shanti Parva, Adhyaya 148, Verse 30

कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम्

स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या