Shanti Parva, Adhyaya 146, Verse 1
अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम
मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम
मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम्
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम्
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः
अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम्
तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः
जगाम स वनं राजा दह्यमानो दिवानिशम्
स प्रजाभिः परित्यक्तश्चकार कुशलं महत्
अतिवेलं तपस्तेपे दह्यमानः स मन्युना
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्
दह्यमानः पापकृत्या जगाम जनमेजयः
वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्
समासाद्योपजग्राह पादयोः परिपीडयन्
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा
कर्ता पापस्य महतो भ्रूणहा किमिहागतः
किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथंचन
गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम्
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि
अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन्
प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि
पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया
पितृवंशमिमं पश्य त्वत्कृते नरकं गतम्
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम्
तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः
इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा
अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः
ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि
यदिदं मन्यसे राजन्नायमस्ति परः कुतः
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये