Shanti Parva, Adhyaya 145, Verse 1
विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह
दृष्ट्वा तौ दंपती दुःखादचिन्तयत सद्गतिम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह
दृष्ट्वा तौ दंपती दुःखादचिन्तयत सद्गतिम्
कीदृशेनेह तपसा गच्छेयं परमां गतिम्
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे
महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः
निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया
ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम्
नानाद्विजगणाकीर्णं सरः शीतजलं शुभम्
पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः
उपसर्पत संहृष्टः श्वापदाध्युषितं वनम्
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह
प्रविशन्नेव च वनं निगृहीतः स कण्टकैः
स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः
बभ्राम तस्मिन्विजने नानामृगसमाकुले
ततो द्रुमाणां महतां पवनेन वने तदा
उदतिष्ठत संघर्षात्सुमहान्हव्यवाहनः
तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम्
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः
सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम्
ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा
अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा
ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः
जगाम परमां सिद्धिं तदा भरतसत्तम
ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्
एवं खलु कपोतश्च कपोती च पतिव्रता
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा
यापि चैवंविधा नारी भर्तारमनुवर्तते
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता
एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्
नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः
युधिष्ठिर महानेष धर्मो धर्मभृतां वर
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः
निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम्