Mahabharata

Shanti Parva, Adhyaya 143

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 143, Verse 1

ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः

कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह

Mahabharata

Shanti Parva, Adhyaya 143, Verse 2

किमीदृशं नृशंसेन मया कृतमबुद्धिना

भविष्यति हि मे नित्यं पातकं हृदि जीवतः

Mahabharata

Shanti Parva, Adhyaya 143, Verse 3

स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह

धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्

शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः

Mahabharata

Shanti Parva, Adhyaya 143, Verse 4

नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः

दत्तः स्वमांसं ददता कपोतेन महात्मना

Mahabharata

Shanti Parva, Adhyaya 143, Verse 5

सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च

उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा

Mahabharata

Shanti Parva, Adhyaya 143, Verse 6

अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम्

यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा

Mahabharata

Shanti Parva, Adhyaya 143, Verse 7

क्षुत्पिपासातपसहः कृशो धमनिसंततः

उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम्

Mahabharata

Shanti Parva, Adhyaya 143, Verse 8

अहो देहप्रदानेन दर्शितातिथिपूजना

तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः

दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे

Mahabharata

Shanti Parva, Adhyaya 143, Verse 9

एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः

महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः

Mahabharata

Shanti Parva, Adhyaya 143, Verse 10

ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा

तांश्च बद्धा कपोतान्स संप्रमुच्योत्ससर्ज ह