Mahabharata

Shanti Parva, Adhyaya 142

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 142, Verse 1

अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः

दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 2

तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत

प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत

Mahabharata

Shanti Parva, Adhyaya 142, Verse 3

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया

किं नु तत्कारणं येन साद्यापि न निवर्तते

Mahabharata

Shanti Parva, Adhyaya 142, Verse 4

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने

तया विरहितं हीदं शून्यमद्य गृहं मम

Mahabharata

Shanti Parva, Adhyaya 142, Verse 5

यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा

अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे

Mahabharata

Shanti Parva, Adhyaya 142, Verse 6

पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी

Mahabharata

Shanti Parva, Adhyaya 142, Verse 7

अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता

यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि

Mahabharata

Shanti Parva, Adhyaya 142, Verse 8

भार्या हि परमो नाथः पुरुषस्येह पठ्यते

असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी

Mahabharata

Shanti Parva, Adhyaya 142, Verse 9

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च

नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 10

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः

नास्ति भार्यासमो लोके सहायो धर्मसाधनः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 11

एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै

गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 12

न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति

अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 13

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा

कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 14

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा

शरणागतसंत्राता भव कान्त विशेषतः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 15

एष शाकुनिकः शेते तव वासं समाश्रितः

शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय

Mahabharata

Shanti Parva, Adhyaya 142, Verse 16

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्

शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 17

यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः

सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 18

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते

स प्रेत्य लभते लोकानक्षयानिति शुश्रुम

Mahabharata

Shanti Parva, Adhyaya 142, Verse 19

स त्वं संतानवानद्य पुत्रवानपि च द्विज

तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै

पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा

Mahabharata

Shanti Parva, Adhyaya 142, Verse 20

इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी

अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत

Mahabharata

Shanti Parva, Adhyaya 142, Verse 21

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्

हर्षेण महता युक्तो बाष्पव्याकुललोचनः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 22

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा

पूजयामास यत्नेन स पक्षी पक्षिजीविनम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 23

उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम्

संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 24

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि

प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 25

शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः

पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 26

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी

तस्य नायं न च परो लोको भवति धर्मतः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 27

तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि

तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः

Mahabharata

Shanti Parva, Adhyaya 142, Verse 28

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्

बाधते खलु मा शीतं हिमत्राणं विधीयताम्

Mahabharata

Shanti Parva, Adhyaya 142, Verse 29

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले

यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ

Mahabharata

Shanti Parva, Adhyaya 142, Verse 30

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्

ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत्