Shanti Parva, Adhyaya 141, Verse 1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यो धर्मस्तं वदस्व मे
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यो धर्मस्तं वदस्व मे
महान्धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम
नृगप्रभृतयो राजन्राजानः शरणागतान्
परिपाल्य महाराज संसिद्धिं परमां गताः
श्रूयते हि कपोतेन शत्रुः शरणमागतः
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः
कथं कपोतेन पुरा शत्रुः शरणमागतः
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन्गदतो मे महाभुज
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा
स वै क्षारकमादाय द्विजान्हत्वा वने सदा
चकार विक्रयं तेषां पतंगानां नराधिप
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत्सुमहान्कालो न चाधर्ममबुध्यत
तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगविमूढस्य नान्या वृत्तिररोचत
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः
वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः
क्षणेन पूरयामास सलिलेन वसुंधराम्
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना
नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै
पक्षिणो वातवेगेन हता लीनास्तदाभवन्
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे
महता वातवर्षेण त्रासितास्ते वनौकसः
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम्
ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः
दिशोऽवलोकयामास वेलां चैव दुरात्मवान्
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा
सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम्
शरणं यामि यान्यस्मिन्दैवतानीह भारत
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा