Shanti Parva, Adhyaya 140, Verse 1
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्
अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्
अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये
संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन्
नैतच्छुद्धागमादेव तव धर्मानुशासनम्
प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु
बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः
नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते
बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा
जयो भवति कौरव्य तदा तद्विद्धि मे वचः
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः
नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता
अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत
पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव
जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे
तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम्
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते
आजिजीविषवो विद्यां यशस्कामाः समन्ततः
ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः
अपक्वमतयो मन्दा न जानन्ति यथातथम्
सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
विज्ञानमथ विद्यानां न सम्यगिति वर्तते
निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये
वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव
तान्विद्यावणिजो विद्धि राक्षसानिव भारत
व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते
न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम्
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्
न त्वेव वचनं किंचिदनिमित्तादिहोच्यते
स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे
लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः
समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः
अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्
आगतागमया बुद्ध्या वचनेन प्रशस्यते
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते
अनपाहतमेवेदं नेदं शास्त्रमपार्थकम्
दैतेयानुशनाः प्राह संशयच्छेदने पुरा
ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत्
तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि
अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात्
उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे
अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम्
यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्
तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः
एषैव खलु मर्यादा यामयं परिवर्जयेत्
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव
विहरन्ति परस्वानि स वै क्षत्रियपांसनः
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन्
विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम्