Shanti Parva, Adhyaya 139, Verse 1
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये
राजभिः पीडिते लोके चोरैर्वापि विशां पते
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम्
संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते
अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह
कथं च राजा वर्तेत लोके कलुषतां गते
कथमर्थाच्च धर्माच्च न हीयेत परंतप
राजमूला महाराज योगक्षेमसुवृष्टयः
प्रजासु व्याधयश्चैव मरणं च भयानि च
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजमूलानि सर्वाणि मम नास्त्यत्र संशयः
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे
त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात्
अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी
प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः
नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन्
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च
हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात्
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा
निवृत्तपूगसमया संप्रनष्टमहोत्सवा
अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना
क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना
गतदैवतसंकल्पा वृद्धबालविनाकृता
गोजाविमहिषैर्हीना परस्परहराहरा
हतविप्रा हतारक्षा प्रनष्टौषधिसंचया
श्यावभूतनरप्राया बभूव वसुधा तदा
तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर
बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम्
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत
स कदाचित्परिपतञ्श्वपचानां निवेशनम्
हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित्
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम्
वराहखरभग्नास्थिकपालघटसंकुलम्
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम्
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम्
उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम्
लोहघण्टापरिष्कारं श्वयूथपरिवारितम्