Shanti Parva, Adhyaya 138, Verse 1
युगक्षयात्परिक्षीणे धर्मे लोके च भारत
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
युगक्षयात्परिक्षीणे धर्मे लोके च भारत
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह
हन्त ते कथयिष्यामि नीतिमापत्सु भारत
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च
राजा शत्रुंतपो नाम सौवीराणां महारथः
कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम्
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते
वर्धितं पालयेत्केन पालितं प्रणयेत्कथम्
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम्
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः
तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत्
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः
ततः सहायान्पक्षं च सर्वमेवानुसारयेत्
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्
आपदां पदकालेषु कुर्वीत न विचारयेत्
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत्
अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत्
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः
अथैनमागते काले भिन्द्याद्घटमिवाश्मनि
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्
न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम्
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत्
अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः
व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत्
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान्
कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत्
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत्
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्
पानमक्षास्तथा नार्यो मृगया गीतवादितम्
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान्
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्
देशं कालं समासाद्य विक्रमेत विचक्षणः
देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत्
कालाकालौ संप्रधार्य बलाबलमथात्मनः
परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत्
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति
स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा