Shanti Parva, Adhyaya 137, Verse 1
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्
Containing 109 sacred Sanskrit shlokas with multi-author commentaries and translations.
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम्
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति
अविश्वासकथामेतामुपश्रुत्य पितामह
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी
पूजनी नाम शकुनी दीर्घकालं सहोषिता
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत
समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम्
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह
फलमेकं सुतायादाद्राजपुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोविवर्धनम्
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात्
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा
शून्ये तु तमुपादाय पक्षिणं समजातकम्
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत्
अथ सा शकुनी राजन्नागमत्फलहारिका
अपश्यन्निहतं पुत्रं तेन बालेन भूतले
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम्
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत्
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम्
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्
अहमस्य करोम्यद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः
सहसंजातवृद्धस्य तथैव सहभोजिनः
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम्
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्
इच्छयैव कृतं पापं सद्य एवोपसर्पति
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम्
पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया
उभयं तत्समीभूतं वस पूजनि मा गमः
सकृत्कृतापराधस्य तत्रैव परिलम्बतः
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत्
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति
सर्वेषां कृतवैराणामविश्वासः सुखावहः
एकान्ततो न विश्वासः कार्यो विश्वासघातकः
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत्
माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता
अन्योन्यकृतवैराणां न संधिरुपपद्यते
स च हेतुरतिक्रान्तो यदर्थमहमावसम्
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात्
पूर्वं संमानना यत्र पश्चाच्चैव विमानना
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः
उषितास्मि तवागारे दीर्घकालमहिंसिता
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम्