Mahabharata

Shanti Parva, Adhyaya 136

Containing 211 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 136, Verse 1

सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ

अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी

Mahabharata

Shanti Parva, Adhyaya 136, Verse 2

तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम

यथा राजन्न मुह्येत शत्रुभिः परिवारितः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 3

धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद

पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 136, Verse 4

शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः

एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि

Mahabharata

Shanti Parva, Adhyaya 136, Verse 5

विषमस्थं हि राजानं शत्रवः परिपन्थिनः

बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 6

सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः

एकेनैवासहायेन शक्यं स्थातुं कथं भवेत्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 7

कथं मित्रमरिं चैव विन्देत भरतर्षभ

चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे

Mahabharata

Shanti Parva, Adhyaya 136, Verse 8

प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते

कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 9

विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत्

कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति

Mahabharata

Shanti Parva, Adhyaya 136, Verse 10

एतद्वै सर्वकृत्यानां परं कृत्यं परंतप

नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 11

ऋते शांतनवाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात्

तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे

Mahabharata

Shanti Parva, Adhyaya 136, Verse 12

त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः

शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत

Mahabharata

Shanti Parva, Adhyaya 136, Verse 13

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति

सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 14

तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्

देशं कालं च विज्ञाय कार्याकार्यविनिश्चये

Mahabharata

Shanti Parva, Adhyaya 136, Verse 15

संधातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः

अमित्रैरपि संधेयं प्राणा रक्ष्याश्च भारत

Mahabharata

Shanti Parva, Adhyaya 136, Verse 16

यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः

न सोऽर्थमाप्नुयात्किंचित्फलान्यपि च भारत

Mahabharata

Shanti Parva, Adhyaya 136, Verse 17

यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते

अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 18

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च

Mahabharata

Shanti Parva, Adhyaya 136, Verse 19

वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत्

लताजालपरिच्छन्नो नानाद्विजगणायुतः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 20

स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः

वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 21

तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्

वसति स्म महाप्राज्ञः पलितो नाम मूषकः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 22

शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः

लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 23

तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः

अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ

Mahabharata

Shanti Parva, Adhyaya 136, Verse 24

तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः

गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 25

तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः

कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत

Mahabharata

Shanti Parva, Adhyaya 136, Verse 26

तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि

तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः

Mahabharata

Shanti Parva, Adhyaya 136, Verse 27

तेनानुचरता तस्मिन्वने विश्वस्तचारिणा

भक्षं विचरमाणेन नचिराद्दृष्टमामिषम्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 28

स तमुन्माथमारुह्य तदामिषमभक्षयत्

तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 29

आमिषे तु प्रसक्तः स कदाचिदवलोकयन्

अपश्यदपरं घोरमात्मनः शत्रुमागतम्

Mahabharata

Shanti Parva, Adhyaya 136, Verse 30

शरप्रसूनसंकाशं महीविवरशायिनम्

नकुलं हरिकं नाम चपलं ताम्रलोचनम्