Shanti Parva, Adhyaya 135, Verse 1
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम्
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम्
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये
नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम्
कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः
निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति
अनागतमनर्थं हि सुनयैर्यः प्रबाधते
न स संशयमाप्नोति रोचतां वां व्रजामहे
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते
न तु कार्या त्वरा यावदिति मे निश्चिता मतिः
अथ संप्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम्
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः
जगाम स्रोतसैकेन गम्भीरसलिलाशयम्
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम्
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान्
ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः
सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले
त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान्
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्
स संशयमवाप्नोति यथा संप्रतिपत्तिमान्
अनागतविधानं तु यो नरः कुरुते क्षमम्
श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ
कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः
पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च
पृथिवी देश इत्युक्तः कालः स च न दृश्यते
अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः
प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम्
परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत्
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्