Mahabharata

Shanti Parva, Adhyaya 134

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 134, Verse 1

अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः

येन मार्गेण राजानः कोशं संजनयन्ति च

Mahabharata

Shanti Parva, Adhyaya 134, Verse 2

न धनं यज्ञशीलानां हार्यं देवस्वमेव तत्

दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 134, Verse 3

इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत

धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते

Mahabharata

Shanti Parva, Adhyaya 134, Verse 4

तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा

अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत

Mahabharata

Shanti Parva, Adhyaya 134, Verse 5

यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति

आनन्तिकां तां धनितामाहुर्वेदविदो जनाः

Mahabharata

Shanti Parva, Adhyaya 134, Verse 6

हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः

न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः

Mahabharata

Shanti Parva, Adhyaya 134, Verse 7

असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति

आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः

Mahabharata

Shanti Parva, Adhyaya 134, Verse 8

औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा

अनिष्टतः संभवन्ति तथायज्ञः प्रतायते

Mahabharata

Shanti Parva, Adhyaya 134, Verse 9

यथैव दंशमशकं यथा चाण्डपिपीलिकम्

सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते

Mahabharata

Shanti Parva, Adhyaya 134, Verse 10

यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम्

तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च