Mahabharata

Shanti Parva, Adhyaya 133

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 133, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति

Mahabharata

Shanti Parva, Adhyaya 133, Verse 2

प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान्

रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 3

निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः

कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 4

अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता

विधिज्ञो मृगजातीनां निपानानां च कोविदः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 5

सर्वकाननदेशज्ञः पारियात्रचरः सदा

धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 6

अप्यनेकशताः सेना एक एव जिगाय सः

स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 7

मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि

सत्कृत्य भोजयामास सम्यक्परिचचार च

Mahabharata

Shanti Parva, Adhyaya 133, Verse 8

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्

अपि तेभ्यो मृगान्हत्वा निनाय च महावने

Mahabharata

Shanti Parva, Adhyaya 133, Verse 9

ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया

तेषामासज्य गेहेषु काल्य एव स गच्छति

Mahabharata

Shanti Parva, Adhyaya 133, Verse 10

तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे

निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 11

मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध

ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 12

यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा

पालयास्मान्यथान्यायं यथा माता यथा पिता

Mahabharata

Shanti Parva, Adhyaya 133, Verse 13

मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्

नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 14

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता

नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 15

सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः

पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा

Mahabharata

Shanti Parva, Adhyaya 133, Verse 16

सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति

कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 17

यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम्

न तस्य त्रिषु लोकेषु त्राता भवति कश्चन

Mahabharata

Shanti Parva, Adhyaya 133, Verse 18

यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत्

सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 19

इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः

ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति

Mahabharata

Shanti Parva, Adhyaya 133, Verse 20

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः

ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 21

ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन

तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा

Mahabharata

Shanti Parva, Adhyaya 133, Verse 22

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः

अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः

Mahabharata

Shanti Parva, Adhyaya 133, Verse 23

तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम्

वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 24

कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्

साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्

Mahabharata

Shanti Parva, Adhyaya 133, Verse 25

इदं कापव्यचरितं यो नित्यमनुकीर्तयेत्

नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन

Mahabharata

Shanti Parva, Adhyaya 133, Verse 26

भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन

न सतो नासतो राजन्स ह्यरण्येषु गोपतिः