Mahabharata

Shanti Parva, Adhyaya 131

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 131, Verse 1

स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः

कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 131, Verse 2

तस्मात्संजनयेत्कोशं संहृत्य परिपालयेत्

परिपाल्यानुगृह्णीयादेष धर्मः सनातनः

Mahabharata

Shanti Parva, Adhyaya 131, Verse 3

न कोशः शुद्धशौचेन न नृशंसेन जायते

पदं मध्यममास्थाय कोशसंग्रहणं चरेत्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 4

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्

अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 5

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा

तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 6

हीनकोशं हि राजानमवजानन्ति मानवाः

न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च

Mahabharata

Shanti Parva, Adhyaya 131, Verse 7

श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम्

सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः

Mahabharata

Shanti Parva, Adhyaya 131, Verse 8

ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः

शालावृका इवाजस्रं जिघांसूनिव विन्दति

ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम

Mahabharata

Shanti Parva, Adhyaya 131, Verse 9

उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम्

अप्यपर्वणि भज्येत न नमेतेह कस्यचित्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 10

अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह

न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत्

दस्यूनां सुलभा सेना रौद्रकर्मसु भारत

Mahabharata

Shanti Parva, Adhyaya 131, Verse 11

एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः

दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः

Mahabharata

Shanti Parva, Adhyaya 131, Verse 12

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम्

अल्पाप्यथेह मर्यादा लोके भवति पूजिता

Mahabharata

Shanti Parva, Adhyaya 131, Verse 13

नायं लोकोऽस्ति न पर इति व्यवसितो जनः

नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि

Mahabharata

Shanti Parva, Adhyaya 131, Verse 14

यथा सद्भिः परादानमहिंसा दस्युभिस्तथा

अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु

Mahabharata

Shanti Parva, Adhyaya 131, Verse 15

अयुध्यमानस्य वधो दारामर्शः कृतघ्नता

ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा

स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 16

स एष एव भवति दस्युरेतानि वर्जयन्

अभिसंदधते ये न विनाशायास्य भारत

नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 131, Verse 17

तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः

न बलस्थोऽहमस्मीति नृशंसानि समाचरेत्

Mahabharata

Shanti Parva, Adhyaya 131, Verse 18

सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः

निःशेषकारिणो नित्यमशेषकरणाद्भयम्