Shanti Parva, Adhyaya 130, Verse 1
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
हीने परमके धर्मे सर्वलोकातिलङ्घिनि
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते
असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह
विज्ञानबलमास्थाय जीवितव्यं तथागते
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन
असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः
सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन्
अदत्तमप्याददीत दातुर्वित्तं ममेति वा
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि
वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति
येषां बलकृता वृत्तिर्नैषामन्याभिरोचते
तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर
यदेव प्रकृतं शास्त्रमविशेषेण विन्दति
तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम्
ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान्
न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन्
एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम्
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा
बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम्
न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा
न वाच्यः परिवादो वै न श्रोतव्यः कथंचन
कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः
न वै सतां वृत्तमेतत्परिवादो न पैशुनम्
गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः
यथा यथास्य वहतः सहायाः स्युस्तथापरे
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्
अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः
मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम्
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम्
न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित्
देवा अपि विकर्मस्थं यातयन्ति नराधमम्
व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते
सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति
यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित्
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम्
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्
कक्षे रुधिरपातेन तथा धर्मपदं नयेत्
एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत
राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर