Shanti Parva, Adhyaya 129, Verse 1
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु
विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु
विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च
परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत
असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः
परचक्राभियातस्य दुर्बलस्य बलीयसा
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः
जवेन संधिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन्
अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः
आत्मनः संनिरोधेन संधिं तेनाभियोजयेत्
अपास्य राजधानीं वा तरेदन्येन वापदम्
तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत्
यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः
कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित्
अवरोधाज्जुगुप्सेत का सपत्नधने दया
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन
आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते
क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते
क्षिप्रं वा संधिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः
पदापनयनं क्षिप्रमेतावत्सांपरायिकम्
अनुरक्तेन पुष्टेन हृष्टेन जगतीपते
अल्पेनापि हि सैन्येन महीं जयति पार्थिवः
हतो वा दिवमारोहेद्विजयी क्षितिमावसेत्
युद्धे तु संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम्
सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च
विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ
अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत्
विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत्