Shanti Parva, Adhyaya 128, Verse 1
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
राज्ञः संक्षीणकोशस्य बलहीनस्य भारत
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
राज्ञः संक्षीणकोशस्य बलहीनस्य भारत
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः
राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः
परचक्राभियातस्य दुर्बलस्य बलीयसा
असंविहितराष्ट्रस्य देशकालावजानतः
अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात्
जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत्
गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ
अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित्
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः
तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया
उपायं धर्मबहुलं यात्रार्थं शृणु भारत
नाहमेतादृशं धर्मं बुभूषे धर्मकारणात्
दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः
अनुगम्य गतीनां च सर्वासामेव निश्चयम्
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते
तथा तथा विजानाति विज्ञानं चास्य रोचते
अविज्ञानादयोगश्च पुरुषस्योपजायते
अविज्ञानादयोगो हि योगो भूतिकरः पुनः
अशङ्कमानो वचनमनसूयुरिदं शृणु
राज्ञः कोशक्षयादेव जायते बलसंक्षयः
कोशं संजनयेद्राजा निर्जलेभ्यो यथा जलम्
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम्
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः
अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी
धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति
यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः
अधर्मो जायते यस्मिन्निति वै कवयो विदुः
अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे
उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति
अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्
अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः
पीडितस्य किमद्वारमुत्पथो निधृतस्य वा
अद्वारतः प्रद्रवति यदा भवति पीडितः
तस्य कोशबलज्यान्या सर्वलोकपराभवः
भैक्षचर्या न विहिता न च विट्शूद्रजीविका
स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः
वहतः प्रथमं कल्पमनुकल्पेन जीवनम्
आपद्गतेन धर्माणामन्यायेनोपजीवनम्
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये
क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित्
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि
नित्यमेवेह कर्तव्या एष धर्मः सनातनः