Shanti Parva, Adhyaya 127, Verse 1
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि
तस्मात्कथय भूयस्त्वं धर्ममेव पितामह
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि
तस्मात्कथय भूयस्त्वं धर्ममेव पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः
पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान्
उवास गौतमो यत्र कालं तदपि मे शृणु
षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः
तमुग्रतपसं युक्तं तपसा भावितं मुनिम्
उपयातो नरव्याघ्र लोकपालो यमस्तदा
तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम्
स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा
प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः
तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम्
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्
कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान्
तपःशौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोरहरहः पूजनं कार्यमञ्जसा
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः
तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान्