Shanti Parva, Adhyaya 126, Verse 1
ततस्तेषां समस्तानामृषीणामृषिसत्तमः
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत्
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तेषां समस्तानामृषीणामृषिसत्तमः
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत्
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो
समासादितवान्दिव्यं नरनारायणाश्रमम्
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान्
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा
पितॄणां देवतानां च ततोऽऽश्रममियां तदा
रेमाते यत्र तौ नित्यं नरनारायणावृषी
अदूरादाश्रमं कंचिद्वासार्थमगमं ततः
ततश्चीराजिनधरं कृशमुच्चमतीव च
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम्
अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित्
शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः
निवेद्य नाम गोत्रं च पितरं च नरर्षभ
प्रदिष्टे चासने तेन शनैरहमुपाविशम्
ततः स कथयामास कथा धर्मार्थसंहिताः
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः
उपायाज्जवनैरश्वैः सबलः सावरोधनः
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः
भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा
दुर्लभः स मया द्रष्टुमाशा च महती मम
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान्
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत्
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम्
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत्
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम्
अपृच्छंश्चैव ते तत्र राजानमपराजितम्
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम्
वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः