Shanti Parva, Adhyaya 124, Verse 1
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
धर्मस्य शीलमेवादौ ततो मे संशयो महान्
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि
धर्मस्य शीलमेवादौ ततो मे संशयो महान्
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते
कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह
सभायां चावहसनं तत्सर्वं शृणु भारत
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्
दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत्
श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि
यथा त्वं महदैश्वर्यं प्राप्तः परपुरंजय
किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस्तथा
आच्छादयसि प्रावारानश्नासि पिशितोदनम्
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक
दश तानि सहस्राणि स्नातकानां महात्मनाम्
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम्
अमित्राणां सुमहतीमनुशोचामि मानद
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः
न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्
एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः
अतस्तेषां गुणक्रीता वसुधा स्वयमागमत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत
प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम्
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम्
ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्
कथयामास भगवान्देवेन्द्राय कुरूद्वह
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत
इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः
तत्रागमय भद्रं ते भूय एव पुरंदर
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः
तेनापि समनुज्ञातो भार्गवेण महात्मना
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः
भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः
ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत्
स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्
प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते
ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत्
ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत्
ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा