Shanti Parva, Adhyaya 123, Verse 1
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता
धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक्
यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये
कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा
धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये
मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते
धर्मः शरीरसंगुप्तिर्धर्मार्थं चार्थ इष्यते
कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः
संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत्
विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान्
श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात्
बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्
संप्रमोदमलः कामो भूयः स्वगुणवर्तितः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः
कामन्दमृषिमासीनमभिवाद्य नराधिपः
अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्
यः पापं कुरुते राजा काममोहबलात्कृतः
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम्
अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्
यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति
प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः
तस्मान्नास्तिकता चैव दुराचारश्च जायते
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः
ततः संक्षयमाप्नोति तथा वध्यत्वमेति च
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम्
जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत्
अत्रैतदाहुराचार्याः पापस्य च निबर्हणम्
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च
महामना भवेद्धर्मे विवहेच्च महाकुले
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः
जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः
धर्मान्वितान्संप्रविशेद्बहिः कृत्वैव दुष्कृतीन्
प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा
इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान्
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्
पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः
गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु
गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि