Mahabharata

Shanti Parva, Adhyaya 121

Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 121, Verse 1

अयं पितामहेनोक्तो राजधर्मः सनातनः

ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 2

देवतानामृषीणां च पितॄणां च महात्मनाम्

यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 3

सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्

सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो

Mahabharata

Shanti Parva, Adhyaya 121, Verse 4

इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम्

दृश्यते लोकमासक्तं ससुरासुरमानुषम्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 5

एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ

को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 6

किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः

जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 7

कश्च पूर्वापरमिदं जागर्ति परिपालयन्

कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः

किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते

Mahabharata

Shanti Parva, Adhyaya 121, Verse 8

शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः

यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 9

धर्मस्याख्या महाराज व्यवहार इतीष्यते

तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः

इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते

Mahabharata

Shanti Parva, Adhyaya 121, Verse 10

अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः

सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना

प्रजा रक्षति यः सम्यग्धर्म एव स केवलः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 11

अथोक्तमेतद्वचनं प्रागेव मनुना पुरा

जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 12

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः

व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते

Mahabharata

Shanti Parva, Adhyaya 121, Verse 13

दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते

दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 14

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः

अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 15

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः

एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 16

असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः

मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 17

सर्वप्रहरणीयानि सन्ति यानीह कानिचित्

दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 18

भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा

घातयन्नभिधावंश्च दण्ड एव चरत्युत

Mahabharata

Shanti Parva, Adhyaya 121, Verse 19

असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः

श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 20

शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः

धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 21

असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः

नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 121, Verse 22

दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः

शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते

Mahabharata

Shanti Parva, Adhyaya 121, Verse 23

यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती

दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 24

अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले

दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ

Mahabharata

Shanti Parva, Adhyaya 121, Verse 25

कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः

अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः

Mahabharata

Shanti Parva, Adhyaya 121, Verse 26

दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये

हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम्

Mahabharata

Shanti Parva, Adhyaya 121, Verse 27

अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्

मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ

Mahabharata

Shanti Parva, Adhyaya 121, Verse 28

अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ

विनयश्च विसर्गश्च कालाकालौ च भारत

Mahabharata

Shanti Parva, Adhyaya 121, Verse 29

अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च

क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ

Mahabharata

Shanti Parva, Adhyaya 121, Verse 30

तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा

विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले