Shanti Parva, Adhyaya 120, Verse 1
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम्
प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ
रक्षणं सर्वभूतानामिति क्षत्रे परं मतम्
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्
तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च
मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति
यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत्
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी
श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः
आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव
शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्
अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम्
नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन्
मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत्
जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः
दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत्
काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत्
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान्
श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत्
प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने
मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत्
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना
चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत्
पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः
हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान्
नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत्
सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत्
सर्वतश्चाददेत्प्रज्ञां पतंगान्गहनेष्विव
एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत्
आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः
आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम्
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्
परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत्
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः
निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा
संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके
अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः
आगमैरुपदिष्टानि स्वस्य चैव परस्य च
क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम्
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः
अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्
ममायमिति राजा यः स पर्वत इवाचलः
व्यवसायं समाधाय सूर्यो रश्मिमिवायताम्
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान्
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान्
स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः
एतेनैव प्रकारेण कृत्यानामागतिं गतिम्
युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा
व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित्
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन्
चारांश्च नचरान्विद्यात्तथा बुद्ध्या न संज्वरेत्