Adi Parva, Adhyaya 212, Verse 1
ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि
सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्
मृगयाव्यपदेशेन यौगपद्येन भारत
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम्
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम्
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम्
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः
विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम्
ते समासाद्य सहिताः सुधर्मामभितः सभाम्
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम्
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा
अन्नपानमपास्याथ समापेतुः सभां ततः
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः
तेषां समुपविष्टानां देवानामिव संनये
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः
अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः
योजयध्वं रथानाशु प्रासानाहरतेति च
धनूंषि च महार्हाणि कवचानि बृहन्ति च
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च
स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान्
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च
अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत्
वनमाली ततः क्षीबः कैलासशिखरोपमः
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः
एष तावदभिप्रायमाख्यातु स्वं महामतिः
यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्
तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन्
समं वचो निशम्येति बलदेवस्य धीमतः
पुनरेव सभामध्ये सर्वे तु समुपाविशन्
ततोऽब्रवीत्कामपालो वासुदेवं परंतपम्
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्
ईप्समानश्च संबन्धं कृतपूर्वं च मानयन्
को हि नाम भवेनार्थी साहसेन समाचरेत्
सोऽवमन्य च नामास्माननादृत्य च केशवम्
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः
कथं हि शिरसो मध्ये पदं तेन कृतं मम
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः