Shanti Parva, Adhyaya 112, Verse 1
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम्
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः
न भक्षयति मांसानि परैरुपहृतान्यपि
अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः
चकार च यथाकाममाहारं पतितैः फलैः
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत्
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत्
तस्य शौचममृष्यन्तः सर्वे ते सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः
वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः
तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम्
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः
अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम्
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः
श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम्
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत्
भवन्तः सर्वलोभेन केवलं भक्षणे रताः
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम्
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः
तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति
अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन्
न शक्यमनमात्येन महत्त्वमनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना
सहायाननुरक्तांस्तु यतेतानुपसंहितान्
परस्परमसंघुष्टान्विजिगीषूनलोलुपान्
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन्
न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम्
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
कृती चामोघकर्तासि भाव्यैश्च समलंकृतः
किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
वनचर्या च निःसङ्गा निर्भया निरवग्रहा