Mahabharata

Shanti Parva, Adhyaya 111

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 111, Verse 1

क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः

दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 111, Verse 2

आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः

वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 3

ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता

विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 4

वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः

नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 5

मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः

वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 6

स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ

अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 7

ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः

विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 8

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्

धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 9

ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा

निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 10

ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते

प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 11

अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते

तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 12

कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः

येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 13

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः

विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 14

ये च संशान्तरजसः संशान्ततमसश्च ये

सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 15

येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित्

येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 16

परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः

ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 17

सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते

ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 18

ये न मानितमिच्छन्ति मानयन्ति च ये परम्

मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 19

ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः

सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 20

ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च

न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 21

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः

जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 22

यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्

वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 23

ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्

भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 24

य एष रक्तपद्माक्षः पीतवासा महाभुजः

सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः

Mahabharata

Shanti Parva, Adhyaya 111, Verse 25

य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्

इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः

Mahabharata

Shanti Parva, Adhyaya 111, Verse 26

स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ

राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः

Mahabharata

Shanti Parva, Adhyaya 111, Verse 27

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्

ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा

Mahabharata

Shanti Parva, Adhyaya 111, Verse 28

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च

पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते

Mahabharata

Shanti Parva, Adhyaya 111, Verse 29

इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ

संतरेद्येन दुर्गाणि परत्रेह च मानवः