Mahabharata

Shanti Parva, Adhyaya 110

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 110, Verse 1

कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत

विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 110, Verse 2

सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः

तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 3

किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम्

कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 4

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्

यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत

Mahabharata

Shanti Parva, Adhyaya 110, Verse 5

भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्

यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 6

तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम्

सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 7

अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः

सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव

Mahabharata

Shanti Parva, Adhyaya 110, Verse 8

किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्

सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 9

तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः

दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति

Mahabharata

Shanti Parva, Adhyaya 110, Verse 10

प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम्

यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 11

धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः

यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 12

श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः

न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते

Mahabharata

Shanti Parva, Adhyaya 110, Verse 13

येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्

तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 14

अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन

अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 15

श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्

यः पापैः सह संबन्धान्मुच्यते शपथादिति

Mahabharata

Shanti Parva, Adhyaya 110, Verse 16

न च तेभ्यो धनं देयं शक्ये सति कथंचन

पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 17

स्वशरीरोपरोधेन वरमादातुमिच्छतः

सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित्

अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 18

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्

अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्

परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 19

प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः

यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 20

शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्

सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 21

धनमित्येव पापानां सर्वेषामिह निश्चयः

येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 22

च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते

धनादानाद्दुःखतरं जीविताद्विप्रयोजनम्

Mahabharata

Shanti Parva, Adhyaya 110, Verse 23

अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः

न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः

Mahabharata

Shanti Parva, Adhyaya 110, Verse 24

तथागतं च यो हन्यान्नासौ पापेन लिप्यते

स्वकर्मणा हतं हन्ति हत एव स हन्यते

तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु

Mahabharata

Shanti Parva, Adhyaya 110, Verse 25

यथा काकश्च गृध्रश्च तथैवोपधिजीविनः

ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु

Mahabharata

Shanti Parva, Adhyaya 110, Verse 26

यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः

मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः