Adi Parva, Adhyaya 211, Verse 1
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः
स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः
वादित्राणि च तत्र स्म वादकाः समवादयन्
ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः
अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः
पौराश्च पादचारेण यानैरुच्चावचैस्तथा
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्
उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्
तमुत्सवं रैवतके शोभयां चक्रिरे तदा
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः
तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम्
अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत
तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत्
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत
वनेचरस्य किमिदं कामेनालोड्यते मनः
ममैषा भगिनी पार्थ सारणस्य सहोदरा
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा
रूपेण चैव संपन्ना कमिवैषा न मोहयेत्
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत्
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ
स च संशयितः पार्थ स्वभावस्यानिमित्ततः
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते
विवाहहेतोः शूराणामिति धर्मविदो विदुः
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्
शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः