Shanti Parva, Adhyaya 109, Verse 1
महानयं धर्मपथो बहुशाखश्च भारत
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
महानयं धर्मपथो बहुशाखश्च भारत
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्
यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात्
मातापित्रोर्गुरूणां च पूजा बहुमता मम
अत्र युक्तो नरो लोकान्यशश्च महदश्नुते
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः
धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत्
यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः
एत एव त्रयो लोका एत एवाश्रमास्त्रयः
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम्
ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः
नैवायं न परो लोकस्तस्य चैव परंतप
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते
न चान्यदपि कल्याणं पारत्रं समुदाहृतम्
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम्
तदासीन्मे शतगुणं सहस्रगुणमेव च
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः
शरीरमेतौ सृजतः पिता माता च भारत
आचार्यशिष्टा या जातिः सा दिव्या साजरामरा
अवध्या हि सदा माता पिता चाप्यपकारिणौ
न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम्
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः
य आवृणोत्यवितथेन कर्णा;वृतं ब्रुवन्नमृतं संप्रयच्छन्
तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन्
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा
यथैव ते गुरुभिर्भावनीया;स्तथा तेषां गुरवोऽप्यर्चनीयाः
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः
प्रीणाति मातरं येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्
न च माता न च पिता तादृशो यादृशो गुरुः
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम्
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः
उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च
चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः
एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके
एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम्