Mahabharata

Shanti Parva, Adhyaya 107

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 107, Verse 1

न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्

नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 2

पुरस्तादेव भगवन्मयैतदपवर्जितम्

येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 3

आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः

नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते

Mahabharata

Shanti Parva, Adhyaya 107, Verse 4

उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे

प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन

Mahabharata

Shanti Parva, Adhyaya 107, Verse 5

उभयोरेव वामर्थे यतिष्ये तव तस्य च

संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 6

त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम्

अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 7

यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः

आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 8

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः

यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 9

तत आहूय वैदेहं मुनिर्वचनमब्रवीत्

अयं राजकुले जातो विदिताभ्यन्तरो मम

Mahabharata

Shanti Parva, Adhyaya 107, Verse 10

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव

नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः

Mahabharata

Shanti Parva, Adhyaya 107, Verse 11

तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि

न राज्यमनमात्येन शक्यं शास्तुममित्रहन्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 12

अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च

ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम्

धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी

Mahabharata

Shanti Parva, Adhyaya 107, Verse 13

कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः

सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः

संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 14

यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत्

जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे

Mahabharata

Shanti Parva, Adhyaya 107, Verse 15

त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः

अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः

Mahabharata

Shanti Parva, Adhyaya 107, Verse 16

स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम्

न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 107, Verse 17

नैव नित्यं जयस्तात नैव नित्यं पराजयः

तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः

Mahabharata

Shanti Parva, Adhyaya 107, Verse 18

आत्मन्येव हि संदृश्यावुभौ जयपराजयौ

निःशेषकारिणां तात निःशेषकरणाद्भयम्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 19

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्

अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च

Mahabharata

Shanti Parva, Adhyaya 107, Verse 20

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः

श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 21

तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा

एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा

Mahabharata

Shanti Parva, Adhyaya 107, Verse 22

ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत्

धर्मतो नीतितश्चैव बलेन च जितो मया

Mahabharata

Shanti Parva, Adhyaya 107, Verse 23

सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम

आत्मानमनवज्ञाय जितवद्वर्ततां भवान्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 24

नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्

नावमन्ये जयामीति जितवद्वर्ततां भवान्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 25

यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात्

ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 26

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा

पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्

Mahabharata

Shanti Parva, Adhyaya 107, Verse 27

ददौ दुहितरं चास्मै रत्नानि विविधानि च

एष राज्ञां परो धर्मः सह्यौ जयपराजयौ