Shanti Parva, Adhyaya 103, Verse 1
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम्
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः
दैवं पूर्वं विकुरुते मानुषे कालचोदिते
तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः
मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि
उदीर्णमनसो योधा वाहनानि च भारत
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत्
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च
अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः
आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः
गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र
युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः
इष्टा मृगाः पृष्ठतो वामतश्च; संप्रस्थितानां च गमिष्यतां च
जिघांसतां दक्षिणाः सिद्धिमाहु;र्ये त्वग्रतस्ते प्रतिषेधयन्ति
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः
हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः
शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून्
शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च
येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः
धैर्यं चाविशते योधान्विजयस्य मुखं तु तत्
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति
संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर
साम्नैवावर्तने पूर्वं प्रयतेथास्ततो युधि
जघन्य एष विजयो यद्युद्धं नाम भारत
यादृच्छिको युधि जयो दैवो वेति विचारणम्
अपामिव महावेगस्त्रस्ता मृगगणा इव
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम्
उदारसारा महती रुरुसंघोपमा चमूः
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः
अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम्
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान्
संनिपातो न गन्तव्यः शक्ये सति कथंचन
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते
वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ
तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः
शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम्
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः
संपीड्यमाना हि परे योगमायान्ति सर्वशः
अन्तराणां च भेदार्थं चारानभ्यवचारयेत्
यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम्
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा
क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम्
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते
महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः