Shanti Parva, Adhyaya 102, Verse 1
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत
किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत
किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप
यथाचरितमेवात्र शस्त्रपत्रं विधीयते
आचारादेव पुरुषस्तथा कर्मसु वर्तते
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः
आभीरवः सुबलिनस्तद्बलं सर्वपारगम्
सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः
प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः
तथा यवनकाम्बोजा मथुरामभितश्च ये
एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः
सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः
प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे
प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः
मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः
जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः
बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः
शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः
गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च
तुरंगगतिनिर्घोषास्ते नराः पारयिष्णवः
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः
प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च
गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च
वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः
प्रविशन्त्यतिवेगेन संपरायेऽभ्युपस्थिते
वारणा इव संमत्तास्ते भवन्ति दुरासदाः
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः
उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव
पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव
उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः
अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः
त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते
अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः
एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः