Mahabharata

Shanti Parva, Adhyaya 101

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 101, Verse 1

यथा जयार्थिनः सेनां नयन्ति भरतर्षभ

ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह

Mahabharata

Shanti Parva, Adhyaya 101, Verse 2

सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे

साध्वाचारतया केचित्तथैवौपयिका अपि

उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 3

निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः

तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्

कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे

Mahabharata

Shanti Parva, Adhyaya 101, Verse 4

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत

जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 5

अमित्रा एव राजानं भेदेनोपचरन्त्युत

तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते

Mahabharata

Shanti Parva, Adhyaya 101, Verse 6

गजानां पार्श्वचर्माणि गोवृषाजगराणि च

शल्यकङ्कटलोहानि तनुत्राणि मतानि च

Mahabharata

Shanti Parva, Adhyaya 101, Verse 7

शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः

नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते

Mahabharata

Shanti Parva, Adhyaya 101, Verse 8

ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः

फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः

अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 9

चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते

पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा

Mahabharata

Shanti Parva, Adhyaya 101, Verse 10

नैवातिशीतो नात्युष्णः कालो भवति भारत

तस्मात्तदा योजयेत परेषां व्यसनेषु वा

एतेषु योगाः सेनायाः प्रशस्ताः परबाधने

Mahabharata

Shanti Parva, Adhyaya 101, Verse 11

जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते

चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 12

नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव

तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 13

आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते

परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 14

आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम्

बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 15

उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्

अथ शत्रुप्रतीघातमापदर्थं परायणम्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 16

सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव

अनेन विधिना राजञ्जिगीषेतापि दुर्जयान्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 17

यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः

पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर

Mahabharata

Shanti Parva, Adhyaya 101, Verse 18

अकर्दमामनुदकाममर्यादामलोष्टकाम्

अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 19

समा निरुदकाकाशा रथभूमिः प्रशस्यते

नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 20

बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता

पदातीनां क्षमा भूमिः पर्वतोपवनानि च

Mahabharata

Shanti Parva, Adhyaya 101, Verse 21

पदातिबहुला सेना दृढा भवति भारत

रथाश्वबहुला सेना सुदिनेषु प्रशस्यते

Mahabharata

Shanti Parva, Adhyaya 101, Verse 22

पदातिनागबहुला प्रावृट्काले प्रशस्यते

गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 23

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः

विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 24

प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्

मोक्षे प्रयाणे चलने पानभोजनकालयोः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 25

अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान्

सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान्

बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 26

पारंपर्यागते द्वारे ये केचिदनुवर्तिनः

परिचर्यावरोद्धारो ये च केचन वल्गिनः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 27

अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च

समानाशनपानास्ते कार्या द्विगुणवेतनाः

Mahabharata

Shanti Parva, Adhyaya 101, Verse 28

दशाधिपतयः कार्याः शताधिपतयस्तथा

तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 29

यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे

यथा जयार्थं संग्रामे न जह्याम परस्परम्

Mahabharata

Shanti Parva, Adhyaya 101, Verse 30

इहैव ते निवर्तन्तां ये नः केचन भीरवः

न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति