Mahabharata

Adi Parva, Adhyaya 210

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 210, Verse 1

सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च

सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः

Mahabharata

Adi Parva, Adhyaya 210, Verse 2

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च

तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्

Mahabharata

Adi Parva, Adhyaya 210, Verse 3

प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्

तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः

Mahabharata

Adi Parva, Adhyaya 210, Verse 4

ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः

ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ

Mahabharata

Adi Parva, Adhyaya 210, Verse 5

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने

आस्तां प्रियसखायौ तौ नरनारायणावृषी

Mahabharata

Adi Parva, Adhyaya 210, Verse 6

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत

किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत

Mahabharata

Adi Parva, Adhyaya 210, Verse 7

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा

श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः

Mahabharata

Adi Parva, Adhyaya 210, Verse 8

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ

महीधरं रैवतकं वासायैवाभिजग्मतुः

Mahabharata

Adi Parva, Adhyaya 210, Verse 9

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्

पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम्

Mahabharata

Adi Parva, Adhyaya 210, Verse 10

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः

सहैव वासुदेवेन दृष्टवान्नटनर्तकान्

Mahabharata

Adi Parva, Adhyaya 210, Verse 11

अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः

सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः

Mahabharata

Adi Parva, Adhyaya 210, Verse 12

तीर्थानां दर्शनं चैव पर्वतानां च भारत

आपगानां वनानां च कथयामास सात्वते

Mahabharata

Adi Parva, Adhyaya 210, Verse 13

स कथाः कथयन्नेव निद्रया जनमेजय

कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते

Mahabharata

Adi Parva, Adhyaya 210, Verse 14

मधुरेण स गीतेन वीणाशब्देन चानघ

प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा

Mahabharata

Adi Parva, Adhyaya 210, Verse 15

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः

रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्

Mahabharata

Adi Parva, Adhyaya 210, Verse 16

अलंकृता द्वारका तु बभूव जनमेजय

कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि

Mahabharata

Adi Parva, Adhyaya 210, Verse 17

दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः

नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः

Mahabharata

Adi Parva, Adhyaya 210, Verse 18

अवलोकेषु नारीणां सहस्राणि शतानि च

भोजवृष्ण्यन्धकानां च समवायो महानभूत्

Mahabharata

Adi Parva, Adhyaya 210, Verse 19

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः

अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः

Mahabharata

Adi Parva, Adhyaya 210, Verse 20

कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः

समानवयसः सर्वानाश्लिष्य स पुनः पुनः

Mahabharata

Adi Parva, Adhyaya 210, Verse 21

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते

उवास सह कृष्णेन बहुलास्तत्र शर्वरीः